आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः। आश्चर्यं कामवशगो विकलः केलिशिक्षया
उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः। आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः
इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः। आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा। आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति
चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत्। संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः
मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः। अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः। तस्यात्मज्ञानतृप्तस्य तुलना केन जायते
स्वभावाद् एव जानानो दृश्यमेतन्न किंचन। इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः
अंतस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः। यदृच्छयागतो भोगो न दुःखाय न तुष्टये
अष्टावक्र उवाच॥ हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया। न हि संसारवाहीकैर्मूढैः सह समानता
यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः। अहो तत्र स्थितो योगी न हर्षमुपगच्छति
तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते। न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना। यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः
आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे। विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने
आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरं। यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित्
अष्टावक्र उवाच॥ न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि। संघातविलयं कुर्वन्नेवमेव लयं व्रज
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः। इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि। रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज
समदुःखसुखः पूर्ण आशानैराश्ययोः समः। समजीवितमृत्युः सन्नेवमेव लयं व्रज
अष्टावक्र उवाच॥ आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत्। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः
महोदधिरिवाहं स प्रपंचो वीचिसऽन्निभः। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः
अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः
अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः
जनक उवाच॥ मय्यनंतमहांभोधौ विश्वपोत इतस्ततः। भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता
मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः। उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः
मय्यनंतमहांभोधौ विश्वं नाम विकल्पना। अतिशांतो निराकार एतदेवाहमास्थितः
नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने। इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः
अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत्। इति मम कथं कुत्र हेयोपादेयकल्पना
अष्टावक्र उवाच॥ तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति। किंचिन् मुंचति गृण्हाति किंचिद् दृष्यति कुप्यति
तदा मुक्तिर्यदा चित्तं न वांछति न शोचति। न मुंचति न गृण्हाति न हृष्यति न कुप्यति