अहो जनसमूहेऽपि न द्वैतं पश्यतो मम। अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम्
नाहं देहो न मे देहो जीवो नाहमहं हि चित्। अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा
अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितं। मय्यनंतमहांभोधौ चित्तवाते समुद्यते
मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति। अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः
मय्यनन्तमहांभोधावाश्चर्यं जीववीचयः। उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः
अष्टावक्र उवाच॥ अविनाशिनमात्मानं एकं विज्ञाय तत्त्वतः। तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः
आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे। शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे। सोऽहमस्मीति विज्ञाय किं दीन इव धावसि
श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरं। उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते
आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः। आश्चर्यं कामवशगो विकलः केलिशिक्षया
उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः। आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः
इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः। आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा। आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति
चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत्। संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः
मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः। अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः। तस्यात्मज्ञानतृप्तस्य तुलना केन जायते
स्वभावाद् एव जानानो दृश्यमेतन्न किंचन। इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः
अंतस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः। यदृच्छयागतो भोगो न दुःखाय न तुष्टये
अष्टावक्र उवाच॥ हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया। न हि संसारवाहीकैर्मूढैः सह समानता
यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः। अहो तत्र स्थितो योगी न हर्षमुपगच्छति
तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते। न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना। यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः
आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे। विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने
आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरं। यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित्
अष्टावक्र उवाच॥ न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि। संघातविलयं कुर्वन्नेवमेव लयं व्रज
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः। इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि। रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज
समदुःखसुखः पूर्ण आशानैराश्ययोः समः। समजीवितमृत्युः सन्नेवमेव लयं व्रज
अष्टावक्र उवाच॥ आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत्। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः