ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः। सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः
न सुखी न च वा दुःखी न विरक्तो न संगवान्। न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान्। जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः। समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम्
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति। नैवोद्विजति मरणे जीवने नाभिनन्दति
न धावति जनाकीर्णं नारण्यं उपशान्तधीः। यथातथा यत्रतत्र सम एवावतिष्ठते
जनक उवाच॥ तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात्। नाविधपरामर्शशल्योद्धारः कृतो मया
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे
क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा। क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे
क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा। क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा। क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे
क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा। क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे
क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं। क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे
अलं त्रिवर्गकथया योगस्य कथयाप्यलं। अलं विज्ञानकथया विश्रान्तस्य ममात्मनि
जनक उवाच॥ क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः। क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने
क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः। क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा
क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा। क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता
क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा। क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा
क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा। क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा
क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा। क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये
क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं। क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये
क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा। क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे
क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता। क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे
क्व चैष व्यवहारो वा क्व च सा परमार्थता। क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा
क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा। क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे
क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं। कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा
क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः। क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे
क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं। बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम