स एव धन्य आत्मज्ञः सर्वभावेषु यः समः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं। आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः। अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः। भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः
महदादि जगद्द्वैतं नाममात्रविजृंभितं। विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते
भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी। अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः। क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः। क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते। निर्ममो निरहंकारो निष्कामः शोभते बुधः
अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः। क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा
निरोधादीनि कर्माणि जहाति जडधीर्यदि। मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात्
मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढतां। निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत्। नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन
क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन। निर्विकारस्य धीरस्य निरातंकस्य सर्वदा
क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा। अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि। बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन
नैव प्रार्थयते लाभं नालाभेनानुशोचति। धीरस्य शीतलं चित्तममृतेनैव पूरितम्
न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति। समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति
धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति। हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च। निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः। स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः
पततूदेतु वा देहो नास्य चिन्ता महात्मनः। स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः
अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः। असक्तः सर्वभावेषु केवलो रमते बुधः
निर्ममः शोभते धीरः समलोष्टाश्मकांचनः। सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः
सर्वत्रानवधानस्य न किंचिद् वासना हृदि। मुक्तात्मनो वितृप्तस्य तुलना केन जायते
जानन्नपि न जानाति पश्यन्नपि न पश्यति। ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते। भावेषु गलिता यस्य शोभनाशोभना मतिः
क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः। निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः
आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना। अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च। जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे