विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः। पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम्
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचारमौदास्यं वा प्रपश्यति
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्
स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं। स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम्
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा। तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः
उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते। न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा
विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान्। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः
श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियं। दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिक्कृतो योगी न याति विकृतिं मनाक्
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते। तस्याश्चर्यदशां तां तां तादृशा एव जानते
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः। शून्याकारा निराकारा निर्विकारा निरामयाः
अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः। कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः
सुखमास्ते सुखं शेते सुखमायाति याति च। सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः
स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः। महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते। प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते। देहे विगलिताशस्य क्व रागः क्व विरागता
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा। भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी
सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः। न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं। आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः। अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः। भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः
महदादि जगद्द्वैतं नाममात्रविजृंभितं। विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते
भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी। अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः। क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः। क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते। निर्ममो निरहंकारो निष्कामः शोभते बुधः
अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः। क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा