कृतं देहेन कर्मेदं न मया शुद्धरूपिणा। इति चिन्तानुरोधी यः कुर्वन्नपि करोति न
अतद्वादीव कुरुते न भवेदपि बालिशः। जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते
नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः। न कल्पते न जाति न शृणोति न पश्यति
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः। निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः
यस्यान्तः स्यादहंकारो न करोति करोति सः। निरहंकारधीरेण न किंचिदकृतं कृतम्
नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितं। निराशं गतसन्देहं चित्तं मुक्तस्य राजते
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते। निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते
तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढतां। अथवा याति संकोचममूढः कोऽपि मूढवत्
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं। धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिं। तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयं। आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा। धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति। अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक्
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः। एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः
न शान्तिं लभते मूढो यतः शमितुमिच्छति। धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते। धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम्
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै। स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः
भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः। उभयाभावकः कश्चिद् एवमेव निराकुलः
शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः। न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः
मुमुक्षोर्बुद्धिरालंबमन्तरेण न विद्यते। निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः। पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम्
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचारमौदास्यं वा प्रपश्यति
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्
स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं। स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम्
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा। तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः
उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते। न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा
विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान्। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः
श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियं। दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना