सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च। विशेषो नैव धीरस्य सर्वत्र समदर्शिनः
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता। नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे
न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः। असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते
समाधानसमाधानहिताहितविकल्पनाः। शून्यचित्तो न जानाति कैवल्यमिव संस्थितः
निर्ममो निरहंकारो न किंचिदिति निश्चितः। अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न
मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः। दशां कामपि संप्राप्तो भवेद् गलितमानसः
अष्टावक्र उवाच॥ यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः। तस्मै सुखैकरूपाय नमः शान्ताय तेजसे
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान्। न हि सर्वपरित्याजमन्तरेण सुखी भवेत्
कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः। कुतः प्रशमपीयूषधारासारमृते सुखम्
भवोऽयं भावनामात्रो न किंचित् परमर्थतः। नास्त्यभावः स्वभावनां भावाभावविभाविनाम्
न दूरं न च संकोचाल्लब्धमेवात्मनः पदं। निर्विकल्पं निरायासं निर्विकारं निरंजनम्
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः। वीतशोका विराजन्ते निरावरणदृष्टयः
समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः। इति विज्ञाय धीरो हि किमभ्यस्यति बालवत्
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ। निष्कामः किं विजानाति किं ब्रूते च करोति किम्
अयं सोऽहमयं नाहं इति क्षीणा विकल्पना। सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता। न सुखं न च वा दुःखं उपशान्तस्य योगिनः
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने। निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः
कृत्यं किमपि नैवास्ति न कापि हृदि रंजना। यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता। सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै। निर्वासनः किं कुरुते पश्यन्नपि न पश्यति
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत्। किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ। उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम्
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत्। नो समाधिं न विक्षेपं न लोपं स्वस्य पश्यति
भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः। नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः। यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम्
निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः। क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत्
असंसारस्य तु क्वापि न हर्षो न विषादिता। स शीतलहमना नित्यं विदेह इव राजये
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित्। आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया। प्राकृतस्येव धीरस्य न मानो नावमानता