तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः। त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन
भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति
एक एव भवांभोधावासीदस्ति भविष्यति। न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर
मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय। उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे
त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय। आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि
अष्टावक्र उवाच॥ आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः। तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते
भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते। चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति
आयासात्सकलो दुःखी नैनं जानाति कश्चन। अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम्
व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि। तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित्
इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः। धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत्
विरक्तो विषयद्वेष्टा रागी विषयलोलुपः। ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान्
हेयोपादेयता तावत्संसारविटपांकुरः। स्पृहा जीवति यावद् वै निर्विचारदशास्पदम्
प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि। निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः
हातुमिच्छति संसारं रागी दुःखजिहासया। वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति
यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा। न च ज्ञानी न वा योगी केवलं दुःखभागसौ
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा। तथापि न तव स्वाथ्यं सर्वविस्मरणादृते
अष्टावक्र उवाच॥ तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा। तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः
न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति। यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम्
न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी। सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः
यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता। अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः
बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते। भोगमोक्षनिराकांक्षी विरलो हि महाशयः
धर्मार्थकाममोक्षेषु जीविते मरणे तथा। कस्याप्युदारचित्तस्य हेयोपादेयता न हि
वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ। यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम्
कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नस्ते यथा सुखम्
शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च। न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे
न जगर्ति न निद्राति नोन्मीलति न मीलति। अहो परदशा क्वापि वर्तते मुक्तचेतसः
सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः। समस्तवासना मुक्तो मुक्तः सर्वत्र राजते
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन्। ईहितानीहितैर्मुक्तो मुक्त एव महाशयः
न निन्दति न च स्तौति न हृष्यति न कुप्यति। न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं। अविह्वलमनाः स्वस्थो मुक्त एव महाशयः