आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं। विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा। बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः
अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ। त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः
एवमेव कृतं येन स कृतार्थो भवेदसौ। एवमेव स्वभावो यः स कृतार्थो भवेदसौ
जनक उवाच॥ अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभं। त्यागादाने विहायास्मादहमासे यथासुखम्
कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते। मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्
कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः। यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्
कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः। संयोगायोगविरहादहमासे यथासुखम्
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा। तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा। नाशोल्लासौ विहायास्मदहमासे यथासुखम्
सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः। शुभाशुभे विहायास्मादहमासे यथासुखम्
जनक उवाच॥ प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः। निद्रितो बोधित इव क्षीणसंस्मरणो हि सः
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः। क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे। नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम
अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः। भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते
अष्टावक्र उवाच॥ यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान्। आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति
मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः। एतावदेव विज्ञानं यथेच्छसि तथा कुरु
वाग्मिप्राज्ञानमहोद्योगं जनं मूकजडालसं। करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान्। चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर
रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन। निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव
विश्वं स्फुरति यत्रेदं तरंगा इव सागरे। तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव
श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः। ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः
गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च। आत्मा न गंता नागंता किमेनमनुशोचसि
देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः। क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः
त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः। उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत्। अतः कस्य कथं कुत्र हेयोपादेयकल्पना
एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि। कुतो जन्म कुतो कर्म कुतोऽहंकार एव च
यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे। किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम्
अयं सोऽहमयं नाहं विभागमिति संत्यज। सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव