मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि। किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत्
आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः। असंगो निःस्पृहः शान्तो भ्रमात्संसारवानिव
कूटस्थं बोधमद्वैतमात्मानं परिभावय। आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम्
देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक। बोधोऽहं ज्ञानखड्गेन तःनिकृत्य सुखी भव
निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः। अयमेव हि ते बन्धः समाधिमनुतिष्ठति
त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः। शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम्
निरपेक्षो निर्विकारो निर्भरः शीतलाशयः। अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः
साकारमनृतं विद्धि निराकारं तु निश्चलं। एतत्तत्त्वोपदेशेन न पुनर्भवसंभवः
यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः। तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः
एकं सर्वगतं व्योम बहिरन्तर्यथा घटे। नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा
जनक उवाच॥ अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः। एतावन्तमहं कालं मोहेनैव विडंबितः
यथा प्रकाशयाम्येको देहमेनं तथा जगत्। अतो मम जगत्सर्वमथवा न च किंचन
स शरीरमहो विश्वं परित्यज्य मयाधुना। कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते
यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः। आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम्
तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः। आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम्
यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा। तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम्
आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते। रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः। यदा प्रकाशते विश्वं तदाहं भास एव हि
अहो विकल्पितं विश्वमज्ञानान्मयि भासते। रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा
मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति। मृदि कुंभो जले वीचिः कनके कटकं यथा
अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे। ब्रह्मादिस्तंबपर्यन्तं जगन्नाशोऽपि तिष्ठतः
अहो अहं नमो मह्यं एकोऽहं देहवानपि। क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः
अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः। असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम्
अहो अहं नमो मह्यं यस्य मे नास्ति किंचन। अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम्
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवं। अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः
द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजं। दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः
बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया। एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम
न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया। अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम्
सशरीरमिदं विश्वं न किंचिदिति निश्चितं। शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना
शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा। कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः