अथ श्रीमदष्टावक्रगीता प्रारभ्यते कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति। वैराग्यं च कथं प्राप्तं एतद् ब्रूहि मम प्रभो
अष्टावक्र उवाच॥ मुक्तिं इच्छसि चेत्तात विषयान् विषवत्त्यज। क्षमार्जवदयातोषसत्यं पीयूषवद् भज
न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान्। एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये
यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि। अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः। असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव
धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो। न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा
एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा। अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम्
अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः। नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव
एको विशुद्धबोधोऽहं इति निश्चयवह्निना। प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव
यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत्। आनन्दपरमानन्दः स बोधस्त्वं सुखं भव
मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि। किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत्
आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः। असंगो निःस्पृहः शान्तो भ्रमात्संसारवानिव
कूटस्थं बोधमद्वैतमात्मानं परिभावय। आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम्
देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक। बोधोऽहं ज्ञानखड्गेन तःनिकृत्य सुखी भव
निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः। अयमेव हि ते बन्धः समाधिमनुतिष्ठति
त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः। शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम्
निरपेक्षो निर्विकारो निर्भरः शीतलाशयः। अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः
साकारमनृतं विद्धि निराकारं तु निश्चलं। एतत्तत्त्वोपदेशेन न पुनर्भवसंभवः
यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः। तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः
एकं सर्वगतं व्योम बहिरन्तर्यथा घटे। नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा
जनक उवाच॥ अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः। एतावन्तमहं कालं मोहेनैव विडंबितः
यथा प्रकाशयाम्येको देहमेनं तथा जगत्। अतो मम जगत्सर्वमथवा न च किंचन
स शरीरमहो विश्वं परित्यज्य मयाधुना। कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते
यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः। आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम्
तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः। आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम्
यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा। तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम्
आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते। रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः। यदा प्रकाशते विश्वं तदाहं भास एव हि
अहो विकल्पितं विश्वमज्ञानान्मयि भासते। रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा
मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति। मृदि कुंभो जले वीचिः कनके कटकं यथा