सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्य:
गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम्
बहिरन्तरस्थमुभयमवेष्टिसववत्
स्मृतिकीर्त्यो: कथादेश्चार्तौ प्रायश्चित्तभावात्
भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि
लब्ध्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात्
तत्स्थानत्वादनन्यधर्म: खले बालीवत्
आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत्
अतो ह्यविपक्वभावानामपि तल्लोके
क्रमैकगत्युपपत्तेस्तु
उत्क्रान्तिस्मृतिवाक्यशेषाच्च
महापातकिनां त्वार्तौ
सैकान्तभावो गीतार्थप्रत्यभिज्ञानात्
परां कृत्वैव सर्वेषां तथा ह्याह
भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात्
तच्छक्तिर्माया जडसामान्यात्
व्यापकत्वाद्व्याप्यानाम्
न प्राणिबुद्धिभ्योऽसम्भवात्
निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत्
मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात्
फ़लमस्माद्बादरायणो दृष्टत्वात्
व्युत्क्रमादप्ययस्तथा दृष्टम्
तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत्
पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम्
न विकारिणस्तु करणविकारात्
अनन्यभक्त्या तद्बुद्धिर्बुद्धिलयादत्यन्तम्
आयुश्चिरमितरेषां तु हानिरनास्पदत्वात्
संसृतिरेषामभक्ति: स्यान्नाज्ञानात् कारणासिद्धे:
त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत्
आविस्तिरोभावा विकारा: स्यु: क्रियाफ़लसंयोगात्