नाम्नेति जैमिनि: सम्भवात्
अत्राङ्गप्रयोगाणां यथाकालसम्भवो गृहादिवत्
ईश्वरतुष्टेरेकोऽपि बली
अबन्धोऽर्पणस्य मुखम्
ध्याननियमस्तु दृष्टसौकर्यात्
तद्यजि: पूजयामितरेषां नैवम्
पादोदकं तु पाद्यमव्याप्ते:
स्वयमर्पितं ग्राह्यमविशेषात्
निमित्तगुणाव्यपेक्षणादपरधेषु व्यवस्था
पत्रादेर्दानमत्यथा हि वैशिष्ट्यम्
सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्य:
गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम्
बहिरन्तरस्थमुभयमवेष्टिसववत्
स्मृतिकीर्त्यो: कथादेश्चार्तौ प्रायश्चित्तभावात्
भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि
लब्ध्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात्
तत्स्थानत्वादनन्यधर्म: खले बालीवत्
आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत्
अतो ह्यविपक्वभावानामपि तल्लोके
क्रमैकगत्युपपत्तेस्तु
उत्क्रान्तिस्मृतिवाक्यशेषाच्च
महापातकिनां त्वार्तौ
सैकान्तभावो गीतार्थप्रत्यभिज्ञानात्
परां कृत्वैव सर्वेषां तथा ह्याह
भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात्
तच्छक्तिर्माया जडसामान्यात्
व्यापकत्वाद्व्याप्यानाम्
न प्राणिबुद्धिभ्योऽसम्भवात्
निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत्
मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात्