उभयपरां शाण्डिल्य: शब्दोपपत्तिभ्याम्
वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्ट्यात्
न च क्लिष्ट: पर: स्यादनन्तरं विशेषात्
ऐश्वर्यं तथेति चेन्न स्वाभाव्यात्
अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम्
सर्वानृते किमिति चेन्नैवं बुद्ध्यानन्त्यात्
प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात्
तत्प्रतिष्ठा गृहपीठवत्
मिथोऽपेक्षणादुभयम्
चेत्यचितोर्न तृतीयम्
युक्तौ च सम्परायात्
शक्तित्वान्नानृतं वेद्यम्
तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्य:
सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थप्राणस्थानतदीयतासर्वतद् भावा प्रातिकूल्यादीनि च स्मरणेभ्यो बाहुल्यात्
द्वेषादयस्तु नैवम्
यद्वाक्यशेषात् प्रादुर्भावेष्वपि सा
जन्मकर्मविदश्चाजन्मशब्दात्
तच्च दिव्यं स्वशक्तिमात्रोद्भवात्
मुख्यं तस्य हि कारुण्यम्
प्राणित्वान्न विभूतिषु
द्यूतराजसेवयो: प्रतिषेधाच्च
वासुदेवेऽपीति चेन्नाकरमात्रत्वात्
प्रत्यभिज्ञानाच्च
वृष्णिषु श्रैष्ठ्येन तत्
एवं प्रसिद्धेषु च
भक्त्या भजनोपसंहाराद्गौण्या परायैतद्धेतुत्वात्
रागार्थप्रकीर्त्तिसाहचर्याच्चेतरेषाम्
अन्तराले तु शेषा: स्युरुपास्यादौ च काण्डत्वात्
ताभ्य: पावित्र्यमुपक्रमात्
तासु प्रधानयोगात् फ़लाधिक्यमेके