अथातो भक्तिजिज्ञासा
सा परानुरक्तिरीश्वरे
तत्संस्थस्यामृतत्वोपदेशात्
ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थिते:
तयोपक्षयाच्च
द्वेषप्रतिपक्षभावाद्रसशब्दाच्च राग:
न क्रिया कृत्यनपेक्षणाज्ज्ञानवत्
अत एव फ़लानन्त्यम्
तद्वत: प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत्
सा मुख्येतरापेक्षितत्वात्
प्रकरणाच्च
दर्शनफ़लमिति चेन्न तेन व्यवधानात्
दृष्टत्वाच्च
अत एव तदभावाद्बल्लवीनाम्
भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात्
प्रागुक्तं च
एतेन विकल्पोऽपि प्रयुक्त:
देवभक्तिरितरस्मिन् साहचर्यात्
योगस्तूभयार्थमपेक्षणात् प्रयाजवत्
गौण्या तु समाधिसिद्धि:
हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत्
तदेव कर्मिज्ञानयोगिभ्य आधिक्यशब्दात्
प्रश्ननिरूपणाभ्यामाधिक्यसिद्धे:
नैव श्रद्धा तु साधारण्यात्
तस्यां तत्त्वे चानवस्थानात्
ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात्
बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत्
तदङ्गानां च
तामैश्वर्यपरां काश्यप: परत्वात्
आत्मैकपरां बादरायण: