गुणमाहात्म्यास्क्तिरूपासक्तिपूजासक्तिस्मरणासक्तिदास्यासक्तिसख्यासक्तिवात्सल्यासक्तिकान्तासक्तिआत्मनिवेदनासक्तितन्मयासक्तिपरमविरहासक्तिरूपैकधाप्येकादशधा भवति
इत्येवं वदन्ति जनजल्पनिर्भया एकमताः कुमारव्यासशुकशाण्डिल्यगर्गविष्णुकौण्डिल्यचेषोद्धवारुणिबलिहनूमद्विभीषणादयो भक्ताचार्याः
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धत्ते स भक्तिमान्भवति स प्रेष्ठं लभते स प्रेष्ठं लभते इति