अनिर्वचनीयं प्रेमस्वरूपम्
मूकास्वादनवत
प्रकाशयते क्वापि पात्रे
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानमविच्छिन्नं सूक्ष्मतरमनुभवरूपम्
तत्प्राप्य तदेवावलोकयति, तदेव शृनोति, तदेव भाषयति, तदेव चिन्तयति
गौणी त्रिधा गुणभेदादार्तादिभेदाद्वा
उत्तरस्मादुत्तरस्मात्पूर्वपूर्वा श्रेयाय भवति
अन्यस्मात्सौलभ्यं भक्तौ
प्रमाणान्त्रस्यानपेक्षत्वात्स्वयं प्रमाणत्वात
शान्तिरूपात्परमानन्दरूपाच्च
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात
न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागस्तत्साधनं च कार्यमेव
स्त्रीधननास्तिकवैरिचरित्रं न श्रवणीयम्
अभिमानदम्भादिकं त्याज्यम्
तदर्पिताखिलाचारः सन्कामक्रोधाभिमानादि तस्मिन्नेव करणीयम्
त्रिरूपभङ्गपूर्वकं नित्यदास्यनित्यकाञ्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम्
भक्ता एकान्तिनो मुख्याः
कण्ठावरोधरोमाञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च
तीर्थीकुर्वन्ति तीर्थानि सुकर्मीकुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि
मोदन्ते पितरो नृत्यन्ति देवताः सनाथाश्चेयं भूर्भवति
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादिभेदः
यतस्तदीयाः
वादो नावलम्ब्यः
बाहुल्यावकाशत्वादनियतत्वाच्च
भक्तिशास्त्राणि मननीयानि तद्बोधककर्माणि करणीयानि
सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्षमाणे क्षणार्धमपि व्यर्थं न नेयम्
अहिंसासत्यशौचदयास्तिक्यादि चारित्र्याणि परिपालनीयानि
सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः
स कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी