तस्मिंस्तज्जने भेदाभावात
तदेव साध्यतां तदेव साध्यताम्
दुःसङ्गः सर्वथैव त्याज्यः
कामक्रोधमोहस्मृतिभ्रंशबुद्दिनाशसर्वनाशकारणत्वात
तरङ्गायिता अपीमे सङ्गात्समुद्रायन्ति
कस्तरति कस्तरति मायां यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति
यो विविक्तस्थानं सेवते, यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति, यो योगक्षेमं त्यजति
यः कर्मफलं त्यजति, कर्माणि संन्यस्यति ततो निर्द्वन्द्वो भवति
यो वेदानपि सन्न्यस्यति, केवलमविच्छिन्नानुरागं लभते
स तरति स तरति लोकांस्तारयति
अनिर्वचनीयं प्रेमस्वरूपम्
मूकास्वादनवत
प्रकाशयते क्वापि पात्रे
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानमविच्छिन्नं सूक्ष्मतरमनुभवरूपम्
तत्प्राप्य तदेवावलोकयति, तदेव शृनोति, तदेव भाषयति, तदेव चिन्तयति
गौणी त्रिधा गुणभेदादार्तादिभेदाद्वा
उत्तरस्मादुत्तरस्मात्पूर्वपूर्वा श्रेयाय भवति
अन्यस्मात्सौलभ्यं भक्तौ
प्रमाणान्त्रस्यानपेक्षत्वात्स्वयं प्रमाणत्वात
शान्तिरूपात्परमानन्दरूपाच्च
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात
न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागस्तत्साधनं च कार्यमेव
स्त्रीधननास्तिकवैरिचरित्रं न श्रवणीयम्
अभिमानदम्भादिकं त्याज्यम्
तदर्पिताखिलाचारः सन्कामक्रोधाभिमानादि तस्मिन्नेव करणीयम्
त्रिरूपभङ्गपूर्वकं नित्यदास्यनित्यकाञ्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम्
भक्ता एकान्तिनो मुख्याः
कण्ठावरोधरोमाञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च
तीर्थीकुर्वन्ति तीर्थानि सुकर्मीकुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि
मोदन्ते पितरो नृत्यन्ति देवताः सनाथाश्चेयं भूर्भवति