नारदभक्तिसूत्रम्
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता च
भवतु निश्चयदाढ्यादूर्ध्वं शास्त्ररक्षणम्
अन्यथा पातित्यशङ्कया
लोकोऽपि तावदेव भोजनादिव्यापारस्त्वाशरीरधारणावधि
तल्लक्षणानि वाच्यन्ते नानामतभेदात
पूजादिष्वनुराग इति पाराशर्यः
कथादिष्विति गर्गः
आत्मरत्यविरोधेनेति शाण्डिल्यः
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति
अस्त्येवमेवम्
यथा व्रजगोपिकानाम्
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः
तद्विहीनं जाराणामिव
नास्त्येव तस्मिंस्तत्सुखसुखित्वम्
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा
फलरूपत्वात
ईश्वरस्याप्यभिमानद्वेषित्वाद्दैन्यप्रियत्वाच्च
तस्या ज्ञानमेव साधनमित्येके
अन्योऽन्याश्रयत्वमित्यन्ये
स्वयं फलरूपतेति ब्रह्मकुमारः
राजगृहभोजनादिषु तथैव दृष्टत्वात
न तेन राजपरितोषः, क्षुधशान्तिर्वा
तस्मात्सैव ग्राह्या मुमुक्षुभिः
तस्याः साधनानि गायन्त्याचार्याः
तत्तु विषयत्यागात्सङ्गत्यागाच्च
अव्यावृत्तभजनात्१२
लोकेऽपि भगवद्गुणश्रवणकीर्तनात
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद्वा
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च
लभ्यतेऽपि तत्कृपयैव