अथातो भक्तिं व्याख्यास्यामः
सा त्वस्मिन् परमप्रेमरूपा
अमृतस्वरूपा च
यल्लब्ध्वा पुमान्सिद्धो भवत्यमृतो भवति तृप्तो भवति
यत्प्राप्य ना किञ्चिद्वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवत्यात्मारामो भवति
सा न कामयमाना निरोधरूपत्वात्
निरोधस्तु लोकवेदव्यापारन्यासः
तस्मिन्ननन्यता तद्विरोधिषूदासीनता च
अन्याश्रयाणां त्यागोऽनन्यता
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता च
भवतु निश्चयदाढ्यादूर्ध्वं शास्त्ररक्षणम्
अन्यथा पातित्यशङ्कया
लोकोऽपि तावदेव भोजनादिव्यापारस्त्वाशरीरधारणावधि
तल्लक्षणानि वाच्यन्ते नानामतभेदात
पूजादिष्वनुराग इति पाराशर्यः
कथादिष्विति गर्गः
आत्मरत्यविरोधेनेति शाण्डिल्यः
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति
अस्त्येवमेवम्
यथा व्रजगोपिकानाम्
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः
तद्विहीनं जाराणामिव
नास्त्येव तस्मिंस्तत्सुखसुखित्वम्
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा
फलरूपत्वात
ईश्वरस्याप्यभिमानद्वेषित्वाद्दैन्यप्रियत्वाच्च
तस्या ज्ञानमेव साधनमित्येके
अन्योऽन्याश्रयत्वमित्यन्ये
स्वयं फलरूपतेति ब्रह्मकुमारः