यान् असावतिसरांश्चकार कृणवच्च यान् । त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम्
यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् । कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः
अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य । अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव । अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव
दिवे स्वाहा
पृथिव्यै स्वाहा
अन्तरिक्षाय स्वाहा
अन्तरिक्षाय स्वाहा
दिवे स्वाहा
पृथिव्यै स्वाहा
सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् । अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय
उदायुरुद्बलमुत्कृतमुत्कृत्यामुन् मनीषामुदिन्द्रियम् । आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा । आत्मसदौ मे स्तं मा मा हिंसिष्टम्
अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात्
अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्। एतत्स ऋच्छात्
बृहता मन उप ह्वये मातरिश्वना प्राणापानौ । सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् । सरस्वत्या वाचमुप ह्वयामहे मनोयुजा
कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः । पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः
न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे । केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः
सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः । न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये
न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् । त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय
त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते । किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर
एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्। तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम्
त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि । मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः
मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि । स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु
आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु । देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि
समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा । ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि
देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः । अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् । तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः