अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर । अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् । कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा
तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः
ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु
त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः । स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः
यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि
नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे । आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि
स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् । आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः
इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः । महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान्
एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव । स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम
अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः । अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै
मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह
मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः । दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः
दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् । मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या
तिस्रो देवीर्महि नः शर्म यच्छत प्रजायै नस्तन्वे यच्च पुष्टम् । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन्
उरुव्यचा नो महिषः शर्म यच्छत्वस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः
धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः । आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निर्ऋथात्
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् । आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत
अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी
यो गिरिष्वजायथा वीरुधां बलवत्तमः । कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः
सुपर्णसुवने गिरौ जातं हिमवतस्परि । धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम्
अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत
हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत
हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया । नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन्
इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु । तमु मे अगदं कृधि
देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः । स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड
उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् । तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे
उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता । यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि