यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन । यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम्
यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः । अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम्
यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति । ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम्
यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव । यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम्
अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु । ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः
तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा । यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्
यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति । वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम्
य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये । क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे
सहे पिशाचान्त्सहसैषां द्रविणं ददे । सर्वान् दुरस्यतो हन्मि सं म आकूतिर्ऋध्यताम्
ये देवास्तेन हासन्ते सूर्येण मिमते जवम् । नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे
तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव । श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम्
न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः । पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे
यं ग्राममाविशत इदमुग्रं सहो मम । पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते
ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव । तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव
अभि तं निर्ऋतिर्धत्तामश्वमिव अश्वाभिधान्या । मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते
त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे । त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः
त्वया वयमप्सरसो गन्धर्वांस्चातयामहे । अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय
नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् । गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी । तत्परेताप्सरसः प्रतिबुद्धा अभूतन
यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः । तत्परेताप्सरसः प्रतिबुद्धा अभूतन
यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति । तत्परेताप्सरसः प्रतिबुद्धा अभूतन
एयमगन्न् ओषधीनां वीरुधां वीर्यावती । अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु
आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः । भिनद्मि मुष्कावपि यामि शेपः
भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः । ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु
भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः । ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु
अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् । पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च
श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः । प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्। तमितो नाशयामसि ब्रह्मणा वीर्यावता
जाया इद्वो अप्सरसो गन्धर्वाः पतयो यूयम् । अप धावतामर्त्या मर्त्यान् मा सचध्वम्
उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् । ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे
विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् । ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे
यायैः परिनृत्यत्याददाना कृतं ग्लहात्। सा नः कृतानि सीषती प्रहामाप्नोतु मायया । सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम्