यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा । सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु
रिश्यपदीं वृषदतीं गोषेधां विधमामुत । विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि
मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् । आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय
विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः । दैवीर्मनुष्येषवो ममामित्रान् वि विध्यत
यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति । रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु
यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः । देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्
अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः । मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या
यो अद्य सेन्यो वधोऽघायूनामुदीरते । युवं तं मित्रावरुणावस्मद्यावयतं परि
इतश्च यदमुतश्च यद्वधं वरुण यावय । वि महच्छर्म यच्छ वरीयो यावया वधम्
शास इत्था महामस्यमित्रसाहो अस्तृतः । न यस्य हन्यते सखा न जीयते कदा चन
स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । अधमं गमया तमो यो अस्मामभिदासति
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः
अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् । वि महच्छर्म यच्छ वरीयो यावया वधम्
अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते । गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि
परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि । यथायमरपा असदथो अहरितो भुवत्
या रोहिणीर्देवत्या गावो या उत रोहिणीः । रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि
शुकेषु ते हरिमाणं रोपणाकासु दध्मसि । अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि
नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च । इदं रजनि रजय किलासं पलितं च यत्
किलासं च पलितं च निरितो नाशया पृषत्। आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय
असितं ते प्रलयनमास्थानमसितं तव । असिक्नी अस्योषधे निरितो नाशया पृषत्
अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि । दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम्
सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ । तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्
आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् । अनीनशत्किलासं सरूपामकरत्त्वचम्
सरूपा नाम ते माता सरूपो नाम ते पिता । सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि
श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता । इदमू षु प्र साधय पुना रूपाणि कल्पय
यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि । तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन्
यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् । ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन्
यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः । ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन्
नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि । यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने