प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः । अर्वाग्वामस्य प्रवतो नि यच्छतं तौ नो मुञ्चतमंहसः
उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् । स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः
मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि । प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः
प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः
असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः
ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः
ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः
ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति । द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः
यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्। स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः
मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु । आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः
उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु । पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः
पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ । शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः
अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति । ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः
ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति । ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः
यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार । यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः
तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् । स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः
भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते । यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ । यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ । यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु । यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु । यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ । यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी । स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः
मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे । प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः
सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु । यौ गच्छथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः
यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् । यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः
यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् । यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः
यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् । यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः
यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ । यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः
ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् । स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः