न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि । उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः
गावो भगो गाव इन्द्रो म इच्छाद्गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम्
यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु
प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु
4.22 इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् । निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु
एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य । वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै
अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा । अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य
अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू । अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम्
युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते । यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम्
उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते । एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि
सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् । एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि
अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते । विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः
यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् । एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः
यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे । रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः
सुजातं जातवेदसमग्निं वैश्वानरं विभुम् । हव्यवाहं हवामहे स नो मुञ्चत्वंहसः
येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः । येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः
येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् । येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः
यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् । स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः
इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः । यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः
य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज । येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः
यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् । यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः
यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे । यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः
यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ । यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः
यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् । येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः
यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि । स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः
वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः । यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः
ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे । ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः
तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो । युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः
अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम् । सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः
रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् । अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः