दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका । सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव
तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्। तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः
आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः । अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः
दर्शय मा यातुधानान् दर्शय यातुधान्यः । पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे
कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः । वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः
उदग्रभं परिपाणाद्यातुधानं किमीदिनम् । तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम्
यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति । भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय
आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः
इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम्
न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति । देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह
न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि । उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः
गावो भगो गाव इन्द्रो म इच्छाद्गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम्
यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु
प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु
4.22 इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् । निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु
एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य । वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै
अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा । अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य
अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू । अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम्
युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते । यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम्
उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते । एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि
सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् । एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि
अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते । विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः
यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् । एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः
यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे । रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः
सुजातं जातवेदसमग्निं वैश्वानरं विभुम् । हव्यवाहं हवामहे स नो मुञ्चत्वंहसः
येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः । येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः
येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् । येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः
यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् । स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः
इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः । यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः
य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज । येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः