ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः । छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु
शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः । आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः
यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो । यो दैवो वरुणो यश्च मानुषः
तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र । तान् उ ते सर्वान् अनुसंदिशामि
ईशाणां त्वा भेषजानामुज्जेष आ रभामहे । चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा
सत्यजितं शपथयावनीं सहमानां पुनःसराम् । सर्वाः समह्व्योषधीरितो नः पारयादिति
या शशाप शपनेन याघं मूरमादधे । या रसस्य हरणाय जातमारेभे तोकमत्तु सा
यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते । आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि
दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः । दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि
क्षुधामारं तृष्णामारमगोतामनपत्यताम् । अपामार्ग त्वया वयं सर्वं तदप मृज्महे
तृष्णामारं क्षुधामारमथो अक्षपराजयम् । अपामार्ग त्वया वयं सर्वं तदप मृज्महे
अपामार्ग ओषधीनां सर्वासामेक इद्वशी । तेन ते मृज्म आस्थितमथ त्वमगदश्चर
समं ज्योतिः सूर्येणाह्ना रात्री समावती । कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः
यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् । वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम्
अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति । अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति
सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् । प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर
अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् । यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् । चकार भद्रमस्मभ्यमात्मने तपनं तु सः
अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः । अपाह यातुधानीरप सर्वा अराय्यः
अपमृज्य यातुधानान् अप सर्वा अराय्यः । अपामार्ग त्वया वयं सर्वं तदप मृज्महे
उतो अस्यबन्धुकृदुतो असि नु जामिकृत्। उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम्
ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन । सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे
अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् । उत त्रातासि पाकस्याथो हन्तासि रक्षसः
यददो देवा असुरांस्त्वयाग्रे निरकुर्वत । ततस्त्वमध्योषधेऽपामार्गो अजायथाः
विभिन्दती शतशाखा विभिन्दन् नाम ते पिता । प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति
असद्भूम्याः समभवत्तद्यामेति महद्व्यचः । तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु
प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् । सर्वान् मच्छपथामधि वरीयो यावया वधम्
शतेन मा परि पाहि सहस्रेणाभि रक्षा मा । इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्
आ पश्यति प्रति पश्यति परा पश्यति पश्यति । दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति
तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्। त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे