अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे । तेन देवा देवतामग्र आयन् तेन रोहान् रुरुहुर्मेध्यासः
क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः । दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम्
पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् । दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम्
स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी । यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे
अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषाणाम् । इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति
अजमनज्मि पयसा घृतेन दिव्यं सुपर्णं पयसं बृहन्तम् । तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम्
पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् । प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम्
प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् । ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य
शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् । स उत् तिष्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु
समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु । महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु
समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् । वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः
समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् । वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः
गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्। सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु
उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ । महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु
अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि । त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम्
सं वोऽवन्तु सुदानव उत्सा अजगरा उत । मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु
आशामाशां वि द्योततां वाता वान्तु दिशोदिशः । मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु
आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत । मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु
अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव । स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि
प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति । प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि
अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज । वदन्तु पृश्निबाहवो मण्डूका इरिणानु
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः
उपप्रवद मण्डूकि वर्षमा वद तादुरि । मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः
खण्वखा३ खैमखा३ मध्ये तदुरि । वर्षं वनुध्वं पितरो मरुतां मन इच्छत
महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः । तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु
बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति । य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः
यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् । द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः
उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता । उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः
उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः । दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम्
सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्। संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि