आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः । यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम
आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् । तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम
4.3 उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः । हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः
परेणैतु पथा वृकः परमेणोत तस्करः । परेण दत्वती रज्जुः परेणाघायुरर्षतु
अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि । आत्सर्वान् विंशतिं नखान्
व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि । आदु ष्टेनमथो अहिं यातुधानमथो वृकम्
यो अद्य स्तेन आयति स संपिष्टो अपायति । पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम्
मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः । निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः
यत्संयमो न वि यमो वि यमो यन् न संयमः । इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम्
यां त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे । तां त्वा वयं खनामस्योषधिं शेपहर्षणीम्
उदुषा उदु सूर्य उदिदं मामकं वचः । उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना
यथा स्म ते विरोहतोऽभितप्तमिवानति । ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः
उच्छुष्मौषधीनां सारा ऋषभाणाम् । सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन्
अपां रसः प्रथमजोऽथो वनस्पतीनाम् । उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम्
अद्याग्ने अद्य सवितरद्य देवि सरस्वति । अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः
आहं तनोमि ते पसो अधि ज्यामिव धन्वनि । क्रमस्वर्श इव रोहितमनवग्लायता सदा
अश्वस्याश्वतरस्याजस्य पेत्वस्य च । अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन्
सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्। तेना सहस्येना वयं नि जनान्त्स्वापयामसि
न भूमिं वातो अति वाति नाति पश्यति कश्चन । स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन्
प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः । स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि
एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् । अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे
य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति । तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा
स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः । स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः
स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् । ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः
ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । स सोमं प्रथमः पपौ स चकारारसं विषम्
यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे । वाचं विषस्य दूषणीं तामितो निरवादिषम्
सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्। नामीमदो नारूरुप उतास्मा अभवः पितुः
यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः । अपस्कम्भस्य शल्यान् निरवोचमहं विषम्
शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः । अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम्