प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः । विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः
यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् । सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि
भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् । महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम्
एषा ते राजन् कन्या वधूर्नि धूयतां यम । सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः
एषा ते कुलपा राजन् तामु ते परि दद्मसि । ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्
असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च । अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम्
सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः । इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि
इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः । इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः
ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः । तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि
ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि
येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः । अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्
सीसायाध्याह वरुणः सीसायाग्निरुपावति । सीसं म इन्द्रः प्रायच्छत्तदङ्ग यातुचातनम्
इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः । अनेन विश्वा ससहे या जातानि पिशाच्याः
यदि नो गां हंसि यद्यश्वं यदि पूरुषम् । तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा
अमूर्या यन्ति योषितो हिरा लोहितवाससः । अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः
तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे । कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही
शतस्य धमनीनां सहस्रस्य हिराणाम् । अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत
परि वः सिकतावती धनूर्बृहत्यक्रमीत्। तिष्ठतेलयता सु कम्
निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि । अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि
निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा । निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय
यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा । सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु
रिश्यपदीं वृषदतीं गोषेधां विधमामुत । विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि
मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् । आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय
विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः । दैवीर्मनुष्येषवो ममामित्रान् वि विध्यत
यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति । रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु
यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः । देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्
अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः । मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या
यो अद्य सेन्यो वधोऽघायूनामुदीरते । युवं तं मित्रावरुणावस्मद्यावयतं परि
इतश्च यदमुतश्च यद्वधं वरुण यावय । वि महच्छर्म यच्छ वरीयो यावया वधम्
शास इत्था महामस्यमित्रसाहो अस्तृतः । न यस्य हन्यते सखा न जीयते कदा चन