सहृदयं सांमनस्यमविद्वेषं कृणोमि वः । अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः । जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम्
मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा । सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया
येन देवा न वियन्ति नो च विद्विषते मिथः । तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः
ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः । अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि
समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि । सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः
सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान् । देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु
वि देवा जरसावृतन् वि त्वमग्ने अरात्या । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
व्यार्त्या पवमानो वि शक्रः पापकृत्यया । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन् । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
प्राणेन प्राणतां प्राणेहैव भव मा मृथाः । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
उदायुषा समायुषोदोषधीनां रसेन । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम् । व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा
4.1 ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः
इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः । तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे
प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति । ब्रह्म ब्रह्मण उज्जभार मध्यान् नीचैरुच्चैः स्वधा अभि प्र तस्थौ
स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्। महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः
स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्। अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः
नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम । एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु
योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्। त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान्
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम
यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम
यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् । यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम
यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् । यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम
यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः । इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम