यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु । नृम्नं तद्धत्तमश्विना
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । एवेत्काण्वस्य बोधतम्
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते । अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः
यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् । तेन माविष्टमश्विना
यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः । अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः
आ नूनमश्विनोर्ऋषि स्तोमं चिकेत वामया । आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि
आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । आ वां स्तोमा इमे मम नभो न चुच्यवीरत
यदद्य वां नासत्योक्थैराचुच्युवीमहि । यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम्
यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव । पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम्
यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा । वर्तिस्तोकाय तनयाय यातम्
यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा । यदादित्येभिर्ऋभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः
यदद्याश्विनावहं हुवेय वाजसातये । यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः
आ नूनं यातमश्विनेमा हव्यानि वां हिता । इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ
यन् नासत्या पराके अर्वाके अस्ति भेषजम् । तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम्
अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः । व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः
प्र बोधयोषो अश्विना प्र देवि सूनृते महि । प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्
यदुषो यासि भानुना सं सूर्येण रोचसे । आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम्
यदापीतासो अंशवो गावो न दुह्र ऊधभिः । यद्वा वाणीरनुषत प्र देवयन्तो अश्विना
प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । प्र दक्षाय प्रचेतसा
यन् नूनं धीभिरश्विना पितुर्योना निषीदथः । यद्वा सुम्नेभिरुक्थ्या
तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः । यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम्
युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः । युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम्
को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय
आ नो यातं दिवो अच्छ पृथिव्या हिरण्ययेन सुवृता रथेन । मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम्
नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे । नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन्
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना । उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्
मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् । क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम
पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै