महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् । शक्तिकानना स्वचमशकं सक्तु पद्यम
महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्। यथा तव वनस्पते निरघ्नन्ति तथैवेति
महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । यथैव ते वनस्पते पिप्पति तथैवेति
महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । यथा वयो विदाह्य स्वर्गे नमवदह्यते
महानग्न्युप ब्रूते स्वसावेशितं पसः । इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि
महानग्नी कृकवाकं शम्यया परि धावति । अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम्
महानग्नी महानग्नं धावन्तमनु धावति । इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम्
सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् । कुसं पीवरो नवत्
वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे । महान् वै भद्रो यभ मामद्ध्यौदनम्
विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् । कुमारिका पिङ्गलिका कार्द भस्मा कु धावति
महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः । महामभिक्त बाधते महतः साधु खोदनम्
यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्। तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्
यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः । हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः
कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये । निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा
सहस्रधारः पवते समुद्रो वाचमीङ्खयः । सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे
अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः । आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः । नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः । विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे
त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । गूल्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः
त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ । त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत्
३ इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । द्युम्नी श्लोकी स सोम्यः
गिरा वज्रो न संभृतः सबलो अनपच्युतः । ववक्ष ऋष्वो अस्तृतः
महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव । स्तोमैर्वत्सस्य वावृधे
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । विप्रा ऋतस्य वाहसा
कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । जामि ब्रुवत आयुधम्
आ नूनमश्विना युवं वत्सस्य गन्तमवसे । प्रास्मै यच्छतमवृकं पृथु छर्दिर्युयुतं या अरातयः