इहेत्थ प्रागपागुदगधराक्स वै पृथु लीयते
इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी
इहेत्थ प्रागपागुदगधरागक्ष्लिली पुछिलीयते
भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः । दुन्दुभिमाहननाभ्यां जरितरोथामो दैव
कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् । उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्
अलाबूनि पृषातकान्यश्वत्थपलाशम् । पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव
वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर । सुसत्यमिद्गवामस्यसि प्रखुदसि
पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव । होता विष्टीमेन जरितरोथामो दैव
आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् । तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन्
तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः । अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः
उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः । उतेमाशु मानं पिपर्ति
आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत्पृथु
० देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् । युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्
त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः । विप्राय स्तुवते वसुवनिं दुरश्रवसे वह
त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते । श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः
अरंगरो वावदीति त्रेधा बद्धो वरत्रया । इरामह प्रशंसत्यनिरामप सेधति
यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्। मुष्काविदस्या एजतो गोशफे शकुलाविव
यदा स्थूलेन पससाणौ मुष्का उपावधीत्। विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ
यदल्पिकास्वल्पिका कर्कधूकेवषद्यते । वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति
यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः । सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा
महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् । शक्तिकानना स्वचमशकं सक्तु पद्यम
महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्। यथा तव वनस्पते निरघ्नन्ति तथैवेति
महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । यथैव ते वनस्पते पिप्पति तथैवेति
महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः । यथा वयो विदाह्य स्वर्गे नमवदह्यते
महानग्न्युप ब्रूते स्वसावेशितं पसः । इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि
महानग्नी कृकवाकं शम्यया परि धावति । अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम्
महानग्नी महानग्नं धावन्तमनु धावति । इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम्
सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् । कुसं पीवरो नवत्
वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे । महान् वै भद्रो यभ मामद्ध्यौदनम्
विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् । कुमारिका पिङ्गलिका कार्द भस्मा कु धावति