अथो ऽश्वा अस्थूरि नो भवन्।- पाठभेदः रांथ व व्हिटने अथो श्वा अस्थिरो भवन्
इयत्तिका शलाकका। - पाठभेदः रांथ व व्हिटनेउयं यकांशलोकका
आमिनोनिति भद्यते
तस्य अनु निभञ्जनम्
वरुणो याति वस्वभिः
शतं वा भारती शवः
शतमाश्वा हिरण्ययाः । शतं रथ्या हिरण्ययाः । शतं कुथा हिरण्ययाः । अहुल कुश वर्त्तक
शफेन इव ओहते
आय वनेनती जनी
वनिष्ठा नाव गृह्यन्ति
इदं मह्यं मदूरिति
ते वृक्षाः सह तिष्ठति
पाक बलिः
शक बलिः
अश्वत्थ खदिरो धवः
अरदुपरम
शयो हत इव
व्याप पूरुषः
अदूहमित्यां पूषकम्
अत्यर्धर्च परस्वतः
दौव हस्तिनो दृती
विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः । न वै कुमारि तत्तथा यथा कुमारि मन्यसे
मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते । न वै कुमारि तत्तथा यथा कुमारि मन्यसे
निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमे । न वै कुमारि तत्तथा यथा कुमारि मन्यसे
उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि । न वै कुमारि तत्तथा यथा कुमारि मन्यसे
श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि । न वै कुमारि तत्तथा यथा कुमारि मन्यसे
अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे । न वै कुमारि तत्तथा यथा कुमारि मन्यसे
इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सथ
इहेत्थ प्रागपागुदगधराग्वत्साः पुरुषन्त आसते
इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते