श्येनीपती सा
अनामयोपजिह्विका
20.130 को अर्य बहुलिमा इषूनि
को असिद्याः पयः
को अर्जुन्याः पयः
कः कार्ष्ण्याः पयः
एतं पृच्छ कुहं पृच्छ
कुहाकं पक्वकं पृच्छ
यवानो यतिष्वभिः कुभिः
अकुप्यन्तः कुपायकुः
आमणको मणत्सकः
देव त्वप्रतिसूर्य
एनश्चिपङ्क्तिका हविः
प्रदुद्रुदो मघाप्रति
शृङ्ग उत्पन्न
मा त्वाभि सखा नो विदन्
वशायाः पुत्रमा यन्ति
इरावेदुमयं दत
अथो इयन्नियन्न् इति
अथो इयन्निति
अथो ऽश्वा अस्थूरि नो भवन्।- पाठभेदः रांथ व व्हिटने अथो श्वा अस्थिरो भवन्
इयत्तिका शलाकका। - पाठभेदः रांथ व व्हिटनेउयं यकांशलोकका
आमिनोनिति भद्यते
तस्य अनु निभञ्जनम्
वरुणो याति वस्वभिः
शतं वा भारती शवः
शतमाश्वा हिरण्ययाः । शतं रथ्या हिरण्ययाः । शतं कुथा हिरण्ययाः । अहुल कुश वर्त्तक
शफेन इव ओहते
आय वनेनती जनी
वनिष्ठा नाव गृह्यन्ति