पृदाकवः
शृङ्गं धमन्त आसते
अयन्महा ते अर्वाहः
स इच्छकं सघाघते
सघाघते गोमीद्या गोगतीरिति
पुमां कुस्ते निमिच्छसि
पल्प बद्ध वयो इति
बद्ध वो अघा इति
अजागार केविका
अश्वस्य वारो गोशपद्यके
श्येनीपती सा
अनामयोपजिह्विका
20.130 को अर्य बहुलिमा इषूनि
को असिद्याः पयः
को अर्जुन्याः पयः
कः कार्ष्ण्याः पयः
एतं पृच्छ कुहं पृच्छ
कुहाकं पक्वकं पृच्छ
यवानो यतिष्वभिः कुभिः
अकुप्यन्तः कुपायकुः
आमणको मणत्सकः
देव त्वप्रतिसूर्य
एनश्चिपङ्क्तिका हविः
प्रदुद्रुदो मघाप्रति
शृङ्ग उत्पन्न
मा त्वाभि सखा नो विदन्
वशायाः पुत्रमा यन्ति
इरावेदुमयं दत
अथो इयन्नियन्न् इति
अथो इयन्निति