ये च देवा अयजन्ताथो ये च पराददिः । सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते
योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः । अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता
य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः । सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता
प्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः । अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता
सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः । सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता
परिवृक्ता च महिषी स्वस्त्या च युधिं गमः । अनाशुरश्चायामी तोता कल्पेषु संमिता
वावाता च महिषी स्वस्त्या च युधिं गमः । श्वाशुरश्चायामी तोता कल्पेषु संमिता
यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः । विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते
त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः । त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः
यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः । इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते
पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् । स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम्
ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् । पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते
20.129 एता अश्वा आ प्लवन्ते
प्रतीपं प्राति सुत्वनम्
तासामेका हरिक्निका
हरिक्निके किमिछासि
साधुं पुत्रं हिरण्ययम्
क्वाहतं परास्यः
यत्रामूस्तिस्रः शिंशपाः
परि त्रयः
पृदाकवः
शृङ्गं धमन्त आसते
अयन्महा ते अर्वाहः
स इच्छकं सघाघते
सघाघते गोमीद्या गोगतीरिति
पुमां कुस्ते निमिच्छसि
पल्प बद्ध वयो इति
बद्ध वो अघा इति
अजागार केविका
अश्वस्य वारो गोशपद्यके