नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्ऋते । यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः
वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे । घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् । उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः
वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्। मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः
न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्। सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः
न सेशे यस्य रोमशं निषेदुषो विजृम्भते । सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः
अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्। असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः
अयमेमि विचाकशद्विचिन्वन् दासमार्यम् । पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः
धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना । नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः
पुनरेहि वृषाकपे सुविता कल्पयावहै । य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः
यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन । क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः
पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् । भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः
इदं जना उप श्रुत नराशंस स्तविष्यते । षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे
उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश । वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः
एष इषाय मामहे शतं निष्कान् दश स्रजः । त्रीणि शतान्यर्वतां सहस्रा दश गोनाम्
वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः । नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव
प्र रेभासो मनीषा वृषा गाव इवेरते । अमोतपुत्रका एषाममोत गा इवासते
प्र रेभ धीं भरस्व गोविदं वसुविदम् । देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम्
राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति । वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः
परिछिन्नः क्षेममकरोत्तम आसनमाचरन् । कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया
कतरत्त आ हराणि दधि मन्थां परि श्रुतम् । जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः
अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् । जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः
इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् । ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः
इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणोपि पूषा नि षीदति
नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्। मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत
उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् । वनादधिध्वनो गिरो न रिष्येम कदा चन
यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः । सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन्
यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति । ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति
यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः । तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः
यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः । धीराणां शश्वतामहं तदपागिति शुश्रुम