अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । सूनुं सत्यस्य सत्पतिम्
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । यत्राभि संनवामहे
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । यत्सीमुपह्वरे विदत्
उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि । मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे
अर्चत प्रार्चत प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत
अव स्वराति गर्गरो गोधा परि सनिष्वणत्। पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम्
आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः । अपस्फुरं गृभायत सोममिन्द्राय पातवे
अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत । वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव
यो व्यतींरफाणयत्सुयुक्तामुप दाशुषे । तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः । भिनत्कनीन ओदनं पच्यमानं परो गिरा
अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम् । स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम्
आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् । अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम्
तं घेमित्था नमस्विन उप स्वराजमासते । अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने
अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत
यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे
इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः
नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम्
अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः । सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी
आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः
उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि
पदा पणींरराधसो नि बाधस्व महामसि । नहि त्वा कश्चन प्रति
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । त्वं राजा जनानाम्
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । भेजानासः सुवीर्यम्
त्वमिन्द्र बलादधि सहसो जात ओजसः । त्वं वृषन् वृषेदसि
त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः । उद्द्यामस्तभ्ना ओजसा
त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः । वज्रं शिशान ओजसा
त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा । स विश्वा भुव आभवः
आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् । प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन