शिक्षेयमिन् महयते दिवेदिवे राय आ कुहचिद्विदे । नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन
यदिन्द्र यावतस्त्वमेतावदहमीशीय । स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय
शिक्षेयमिन् महयते दिवेदिवे राय आ कुहचिद्विदे । नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना पूतासः
इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः । उप ब्रह्माणि वाघतः
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । सुते दधिष्व नश्चनः
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत । इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत
अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् । विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम्
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये । अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम्
वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् । उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये
ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वामुप याहि सोमम्
अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् । गौराद्वेदीयामवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन्
यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि । उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान्
जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच । एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ
यद्योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् । यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम
प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार । यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य
तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य । गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः
यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण । तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम्
धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे । पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम्
बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः । तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम्
बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण । बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम्
अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै । वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम्
दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् । कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम्
किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि । अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः
त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके । अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः
धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान् । तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम्
यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे । आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम्