सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् । आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ
वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि । आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम्
विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः । शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते । महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः
आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ । चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे । ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत
वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः । यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान्
प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान्
कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव । कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः
कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् । मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः
प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः
मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन । वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि
आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः । स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च
व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे
आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः । तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः
अव स्य शूराध्वनो नान्तेऽस्मिन् नो अद्य सवने मन्दध्यै । शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म
कविर्न निण्यं विदथानि साधन् वृषा यत्सेकं विपिपानो अर्चात्। दिव इत्था जीजनत्सप्त कारून् अह्ना चिच्चक्रुर्वयुना गृणन्तः
स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः । अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ
ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा । अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव
विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर्निकामैः । अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः
अपो वृत्रं वव्रिवांसं पराहन् प्रावत्ते वज्रं पृथिवी सचेताः । प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवं छवसा शूर धृष्णो
अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते । स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर्गृणानः
तद्वो गाय सुते सचा पुरुहूताय सत्वने । शं यद्गवे न शाकिने
न घा वसुर्नि यमते दानं वाजस्य गोमतः । यत्सीमुप श्रवद्गिरः
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्। शचीभिरप नो वरत्
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि
इन्द्र ज्येष्ठं न आ भरमोजिष्ठं पपुरि श्रवः । येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः
त्वामुग्रमवसे चर्षणीसहं राजन् देवेषु हूमहे । विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान् सुषहान् कृधि
यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः । न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी
आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा । अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः
यदिन्द्र यावतस्त्वमेतावदहमीशीय । स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय