अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव । प्र णो यच्छ विशां पते धनदा असि नस्त्वम्
प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः । प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे
सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम्
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय । त्वं नो देव दातवे रयिं दानाय चोदय
इन्द्रवायू उभाविह सुहवेह हवामहे । यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वातं विष्णुं सरस्वतीं सवितारं च वाजिनम्
वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः । उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यच्छ
दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम् । प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च
गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि । आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे
ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु । य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्
यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु । य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्
य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः । यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्
यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः । यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्
यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः । वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्
दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति । ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्
हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् । विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम्
शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः । अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम्
ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः । वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन्
हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव । तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः
मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु । देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा
येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः । येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु
यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः । यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः । तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा
यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते । तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम्
हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि । तस्य भगेन वर्चसाभि षिञ्चामि मामहम्
येन वेहद्बभूविथ नाशयामसि तत्त्वत्। इदं तदन्यत्र त्वदप दूरे नि दध्मसि
आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् । आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः
पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् । भवासि पुत्राणां माता जातानां जनयाश्च यान्
यानि भद्राणि बीजान्यृषभा जनयन्ति च । तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव
कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते । विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव