शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् । शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय
शुनासीरेह स्म मे जुषेथाम् । यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम्
सीते वन्दामहे त्वार्वाची सुभगे भव । यथा नः सुमना असो यथा नः सुफला भुवः
घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः । सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना
इमां खनाम्योषधिं वीरुधां बलवत्तमाम् । यया सपत्नीं बाधते यया संविन्दते पतिम्
उत्तानपर्णे सुभगे देवजूते सहस्वति । सपत्नीं मे परा णुद पतिं मे केवलं कृधि
नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ । परामेव परावतं सपत्नीं गमयामसि
उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । अधः सपत्नी या ममाधरा साधराभ्यः
अहमस्मि सहमानाथो त्वमसि सासहिः । उभे सहस्वती भूत्वा सपत्नीं मे सहावहै
अभि तेऽधां सहमानामुप तेऽधां सहीयसीम् । मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु
संशितं म इदं ब्रह्म संशितं वीर्यं बलम् । संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः
समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् । वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम्
नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् । क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम्
तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत । इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः
एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि । एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः
उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः । पृथग्घोषा उलुलयः केतुमन्त उदीरताम् । देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया
प्रेता जयता नर उग्रा वः सन्तु बाहवः । तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम्
अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव । प्र णो यच्छ विशां पते धनदा असि नस्त्वम्
प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः । प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे
सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम्
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय । त्वं नो देव दातवे रयिं दानाय चोदय
इन्द्रवायू उभाविह सुहवेह हवामहे । यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वातं विष्णुं सरस्वतीं सवितारं च वाजिनम्
वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः । उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यच्छ
दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम् । प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च
गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि । आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे
ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु । य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्