दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् । तव द्युक्षास इन्दवः
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशः
अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । पीत्वी सोमस्य वावृधे
अर्वावतो न आ गहि परावतश्च वृत्रहन् । इमा जुषस्व नो गिरः
यदन्तरा परावतमर्वावतं च हूयसे । इन्द्रेह तत आ गहि
उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्य
नव यो नवतिं पुरो बिभेद बाह्वोजसा । अहिं च वृत्रहावधीत्
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्। उरुधारेव दोहते
इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । पिबा वृषस्व तातृपिम्
एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि
अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय । उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः
आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै । समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रम्
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये । येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ
येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः । सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे
उदु ते मधुमत्तमा गिर स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः । इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन्
तु. ऋग्वेदः [https://sa.wikisource.org/s/13j5 ३.३४]इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् । ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे
मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् । इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः । अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम्
इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः । प्रारोचयन् मनवे [https://vedastudy.yolasite.com/ketu1.php केतु उपरि टिप्पणी], [http://puranastudy.000space.com/pur_index15/nachiketa.htm आरुणकेतुक उपरि टिप्पणी]। बृहद्दैवज्ञरञ्जने [https://sa.wikisource.org/s/2xff ३२.६] कथनमस्ति यत् केतुग्रहस्य पूर्णरूपः मीनावतारः अस्ति - केतोर्मीनावतारश्च ये चान्ये तेपि खेटजाः । पुराणेषु मत्स्यावतारस्य एकं वैशिष्ट्यं जलप्रलयतः मनोः रक्षणमस्ति। केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय
इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि । अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम्
महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि । वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः
युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः । विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः । ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः
ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्
इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् । बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम्
शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्
उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि