कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा । कालादृचः समभवन् यजुः कालादजायत
कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् । काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः
कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः । इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः । सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः
रात्रिंरात्रिमप्रयातं भरन्तोऽश्वायेव तिष्ठते घासमस्मै । रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम
या ते वसोर्वात इषुः सा त एषा तया नो मृड । रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम
सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता । वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम
प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता । वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम
अपश्चा दग्धान्नस्य भूयासम् । अन्नादायान्नपतये रुद्राय नमो अग्नये । सभ्यः सभां मे पाहि ये च सभ्याः सभासदः
त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन् । अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने
यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः । एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ
बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि । ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः
बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिच्छन् । तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः
नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् । त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः
यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः । स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे
विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते । यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम्
यथा कलां यथा शफं यथा र्णं सन्नयन्ति । एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि
सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः । समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम
देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न । स मम यः पापस्तद्द्विषते प्र हिण्मः । मा तृष्टानामसि कृष्णशकुनेर्मुखम्
तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् । अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे
अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् । नवारत्नीन् अपमया अस्माकं ततः परि । दुष्वप्न्यं सर्वं द्विषते निर्दयामसि
घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती । श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः
उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे । वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता
वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम । यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम
व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम्
यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि । इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः
ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् । इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम्
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति
वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः । अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम्