न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति । अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि
ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव । अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः
षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि । चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि
द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः । तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः
रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत । मा नो अद्य गवां स्तेनो मावीनां वृक ईशत
माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः । परमेभिः पथिभि स्तेनो धावतु तस्करः । परेण दत्वती रज्जुः परेणाघायुरर्षतु
अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु । हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि
त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि । गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः
अथो यानि च यस्मा ह यानि चान्तः परीणहि । तानि ते परि दद्मसि
रात्रि मातरुषसे नः परि देहि । उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि
यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् । यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः
सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत । गोपाय नो विभावरि स्तोतारस्त इह स्मसि
ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति । पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति
वेद वै रात्रि ते नाम घृताची नाम वा असि । तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति
इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य । अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा
अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः । उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः
वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् । अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या
सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे । अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती
शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु । अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु
स्तोमस्य नो विभावरि रात्रि राजेव जोषसे । असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः
शम्या ह नाम दधिषे मम दिप्सन्ति ये धना । रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते
भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि । चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः
यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः । रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्
प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्। यो मलिम्लुरुपायति स संपिष्टो अपायति । अपायति स्वपायति शुष्के स्थाणावपायति
अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु । अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि
ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः । तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा
रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् । गम्भीरमप्लवा इव न तरेयुररातयः
यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते । एवा रात्रि प्र पातय यो अस्मामभ्यघायति
अप स्तेनं वासयो गोअजमुत तस्करम् । अथो यो अर्वतः शिरोऽभिधाय निनीषति
यदद्य रात्रि सुभगे विभजन्त्ययो वसु । यदेतदस्मान् भोजय यथेदन्यान् उपायसि