यदापो अघ्न्या इति वरुणेति यदूचिम । तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः
मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन । तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः
19.45 ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् । चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन
यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे । अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम्
अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः । चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते
चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु । ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम्
आक्ष्वैकं मणिमेकं कृणुष्व स्नाह्येकेना पिबैकमेषाम् । चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान्
अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे । तेजसे स्वस्तये सुभूतये स्वाहा
इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे । तेजसे स्वस्तये सुभूतये स्वाहा
सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे । तेजसे स्वस्तये सुभूतये स्वाहा
भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे । तेजसे स्वस्तये सुभूतये स्वाहा
मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे । स्वस्तये सुभूतये स्वाहा
19.46 प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् । तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु
ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः । इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु
शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे । तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु
इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव । पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु
अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते । व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु
घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः । शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु
यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा । सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु
आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः । दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः
न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति । अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि
ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव । अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः
षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि । चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि
द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः । तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः
रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत । मा नो अद्य गवां स्तेनो मावीनां वृक ईशत
माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः । परमेभिः पथिभि स्तेनो धावतु तस्करः । परेण दत्वती रज्जुः परेणाघायुरर्षतु
अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु । हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि
त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि । गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः
अथो यानि च यस्मा ह यानि चान्तः परीणहि । तानि ते परि दद्मसि
रात्रि मातरुषसे नः परि देहि । उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि