त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः । नद्यायं पुरुषो रिषत्। यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा
जीवला नाम ते माता जीवन्तो नाम ते पिता । नद्यायं पुरुषो रिषत्। यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा
उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव । नद्यायं पुरुषो रिषत्। यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा
त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि । त्रिर्जातो विश्वदेवेभ्यः । स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः । तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत । स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः । यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः
शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः । तक्मानं विश्वधावीर्याधराञ्चं परा सुव
यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम । विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः
मा न आपो मेधां मा ब्रह्म प्र मथिष्टन । सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी
मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः । शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः
या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । तामस्मे रासतामिषम्
भद्रमिच्छन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे । ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु
ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः । अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः
ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता । ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः । शमिताय स्वाहा
अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः । इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः
अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् । अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः
19.43 यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे । अग्नये स्वाहा
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे । सूर्याय स्वाहा
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे । चन्द्राय स्वाहा
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । सोमो मा तत्र नयतु पयः सोमो दधातु मे । सोमाय स्वाहा
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे । इन्द्राय स्वाहा
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । आपो मा तत्र नयत्वमृतं मोप तिष्ठतु । अद्भ्यः स्वाहा
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह । ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे । ब्रह्मणे स्वाहा
19.44 आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे । तदाञ्जन त्वं शंताते शमापो अभयं कृतम्
यो हरिमा जायान्योऽङ्गभेदो विसल्पकः । सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम्
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् । कृणोत्वप्रमायुकं रथजूतिमनागसम्
प्राण प्राणं त्रायस्वासो असवे मृड । निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च
सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् । वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः
देवाञ्जन त्रैककुद परि मा पाहि विश्वतः । न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत
वीदं मध्यमवासृपद्रक्षोहामीवचातनः । अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः
बह्विदं राजन् वरुणानृतमाह पूरुषः । तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः